अधोलिखितं संवादं पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।
Read the following dialogue and answer the given questions in one word.
उमेशः - मित्रम् अशोक ! इदानीम् अहं स्वगृहं गच्छामि।
अशोकः - मित्रम् उमेश! किमर्थं भवान् शीघ्रं गच्छति?
उमेशः - अहं शीघ्रं न गच्छामि, अहं तु विगत-सप्ताहे अत्र आगतवान्, पुनश्च भवताम् आतिथ्यं स्वीकृतवान्।
अशोकः - परञ्च अहम् इच्छामि यत् भवान् इतोपि अत्र तिष्ठतु।
उमेशः - मम गमनम् आवश्यकम्, इदानीं भवान् मम गृहे देहल्ल्याम् आगच्छतु ।
अशोकः - अस्तु! अहम् अवश्यमेव आगमिष्यामि, देहल्ल्यां भवान् माम् किं किं दर्शयिष्यति?
उमेशः - देहल्ल्याम् अहं भवन्तं रक्तदुर्ग, कुतुबमीनारं, मेट्रोयानं च दर्शयिष्यामि ।
अशोकः - मेट्रोयानस्य दर्शनेन तु कार्यं न भविष्यति, अपितु तस्मिन् याने यात्रा आवश्यकी।
उमेशः - हा! हा! हा! निश्चयेन वयं तस्मिन् याने यात्राम् अपि करिष्यामः।
अशोकः - तर्हि अहम् अवश्यमेव देहलीम् आगमिष्यामि।
१. उमेशः कुत्र गच्छति?
२. उमेशः कदा अशोकस्य पार्श्वे आगतवान्?
३. कः देहलीम् आगमिष्यति?
४. कस्य गमनम् आवश्यकम् ?
५. कस्मिन् याने यात्रा आवश्यकी?
अधोलिखितं संवादं पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।
Read the following dialogue and answer the given questions in one word.
गुरुः - छात्राः ! आगामि सप्ताहे अस्माकं विद्यालये एका प्रतियोगिता भविष्यति ।
शिष्यः - आचार्य! कीदृशी प्रतियोगिता भविष्यति?
गुरुः - भाषण-प्रतियोगिता भविष्यति।
शिष्यः - आचार्य ! भाषण-प्रतियोगितायाः विषयः कः अस्ति?
गुरुः - 'वर्तमान-समये आयुर्वेदस्य उपयोगिता' इति विषयः अस्ति ।
शिष्यः - आचार्य! आयुर्वेदस्य अस्माकं जीवने का उपयोगिता अस्ति?
गुरुः - आयुर्वेदस्य अस्माकं जीवने महती उपयोगिता अस्ति। आयुर्वेदे विविधासाध्यरोगाणाम् उपचारः लिखितम् अस्ति।
शिष्यः अस्तु आचार्य! अहम् अपि आयुर्वेदं पठिष्यामि पुनश्च अस्यां प्रतियोगितायां भागम् अपि ग्रहीष्यामि ।
गुरुः - अवश्यमेव ! मम शुभाशयाः ।
१. आगामि सप्ताहे विद्यालये किम् अस्ति?
२. प्रतियोगिता कीदृशी अस्ति?
३. भाषण-प्रतियोगितायाः विषयः कः अस्ति?
४. आयुर्वेदस्य अस्माकं जीवने का उपयोगिता अस्ति?
५. विविधासाध्यरोगाणाम् उपचारः कुत्र लिखितम् अस्ति?
अधोलिखितं संवादं पठित्वा प्रदत-प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।
Read the following dialogue and answer the given questions in one word.
अर्णवः - त्वं जानासि? परश्वः किम् अस्ति?
प्रत्यक्षः - न अहं न जानामि, वदतुः परश्वः किम् अस्ति?
अर्णवः अरे! परश्वः दीपावली-पर्व अस्ति।
प्रत्यक्षः - आम्! अहं तु विस्मृतवान्, परश्वः तु दीपावली पर्व अस्ति।
अर्णवः - दीपावली-पर्वे त्वं किं करिष्यसि?
प्रत्यक्षः - दीपावली-पर्वे अहं तु स्फोटकानि चालयामि।
अर्णवः त्वं जानासि ? स्फोटकचालनेन अतीव वायुप्रदूषणं भवति, वृद्धजनान्
शिशून् च श्वास-प्रश्वासे काठिन्यं भवति ।
प्रत्यक्षः - एवं वा? तर्हि अहं कदापि वायुप्रदूषणं न करिष्यामि।
अर्णवः - सम्यक्ः वयं मिलित्वा स्वनगरं स्वराष्ट्रं च मुक्तप्रदूषणं करिष्यामः।
१. परश्वः किम् अस्ति?
२. दीपावली-पर्व प्रत्यक्षः कानि चालयिष्यति?
३. स्फोटकचालनेन किं भवति?
४. वृद्धजनान् शिशून् च कस्मिन् काठिन्यं भवति?
५. अर्णवः प्रत्यक्षः च स्वनगरं स्वराष्ट्र च किदृशं करिष्यतः?
अधोलिखितं संवादं पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
Read the following dialogue and answer the given questions in one word.
उमेशः - मित्रम् अशोकः इदानीम् अहं स्वगृहं गच्छामि।
अशोकः - मित्रम् उमेश! किमर्थ भवान् शीघ्रं गच्छति?
भवताम्
अपि
उमेशः अहं शीघ्रं न गच्छामि, अहं तु विगत-सप्ताहे अत्र आगतवान्, पुनश्च
आतिथ्यं स्वीकृतवान्।
अशोकः - परञ्च अहम् इच्छामि यत् भवान् इतोपि अत्र तिष्ठतु।
उमेशः - मम गमनम् आवश्यकम्, इदानीं भवान् मम गृहे देहल्ल्याम् आगच्छतु।
अशोकः - अस्तु! अहम् अवश्यमेव आगमिष्यामि, देहल्ल्यां भवान् माम् किं किं दर्शयिष्यति ?
उमेशः - देहल्ल्याम् अहं भवन्तं रक्तदुर्ग, कुतुबमीनारं, मेट्रोयानं च दर्शयिष्यामि।
अशोकः - मेट्रोयानस्य दर्शनेन तु कार्य न भविष्यति, अपितु तस्मिन् याने यात्रा
आवश्यकी।
उमेशः - हा! हा! हा! निश्चयेन वयं तस्मिन् याने यात्राम् अपि करिष्यामः।
अशोकः - तर्हि अहम् अवश्यमेव देहलीम् आगमिष्यामि।
१. उमेशः कुत्र गच्छति ?
२. उमेशः कदा अशोकस्य पार्श्वे आगतवान्?
३. कः देहलीम् आगमिष्यति ?
४. कस्य गमनम् आवश्यकम् ?
५. कस्मिन् याने यात्रा आवश्यकी?
अधोलिखितं संवादं पठित्वा प्रदत्त-प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
Read the following dialogue and answer the given questions in one word.
रमेशः - क्रिकेटक्रीडा मह्यम् अतीव रोचते ।
सुरेशः - मह्यम् अपि। अस्यां क्रीडायां वे दले भवतः ।
रमेशः - आम्, प्रत्येकं दलस्य एकादश क्रीडितारः भवन्ति ।
सुरेशः - सत्यं, पुनश्च चत्वारः क्रीडितारः सुरक्षिताः भवन्ति ।
रमेशः - भवान् जानाति? क्रीडायां निर्णयं दातुं द्वौ निर्णायकौ भवतः ।
सुरेशः - जानामि, पुनश्च सर्वे क्रीडितारः अस्यां क्रीडायां धावनाड्ङ्कानि एकत्रितानि कुर्वन्ति ।
रमेशः - आम्, यस्य क्रीडितृसमूहस्य दलस्य धावनाङ्ङ्कानि अधिकानि भवन्ति । सः एव विजेता भवति । तस्मै एव पुरस्कारः मिलति।
१. रमेशाय किं रोचते?
२. क्रिकेटक्रीडायां कति दलानि भवन्ति?
३. क्रिकेटक्रीडायां प्रत्येकं दले कति क्रीडितारः भवन्ति?
४. क्रीडायां निर्णयं दातुं कति निर्णायकाः भवन्ति?
५. क्रिकेटक्रीडायां क्रीडितारः कानि एकत्रितानि कुर्वन्ति?